|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.61. अध्यायः 061
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति श्राद्धे निमन्त्रणार्हानर्हब्राह्मणलक्षणादिकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
श्राद्धकाले च दैवे च पित्र्येऽपि च पितामह।
इच्छामीह त्वयाऽऽख्यातं विहितं यत्सुरर्षिभिः॥ 13-61-1(83848)
भीष्म उवाच। 13-61-2x(6986)
दैवं पौर्वाह्णिके कुर्यादपराह्णे तु पैतृकम्।
मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान्॥ 13-61-2(83849)
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तिभिः।
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः॥ 13-61-3(83850)
लङ्घितं चावलीढं च लाकपूर्वं च यत्कृतम्।
रजस्वलाभिदृष्टं च तं भागं रक्षसां विदुः॥ 13-61-4(83851)
अवघुष्टं च यद्भुक्तमव्रतेन च भारत।
परामृष्टं शुना चैव तं भागं रक्षसां विदुः॥ 13-61-5(83852)
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्।
रुदितं चावधूतं च तं भागं रक्षसां विदुः॥ 13-61-6(83853)
निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत।
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः॥ 13-61-7(83854)
परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत्।
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः॥ 13-61-8(83855)
मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते।
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः॥ 13-61-9(83856)
आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते।
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः॥ 13-61-10(83857)
ये भागा रक्षसां प्राप्तास्त उक्ता भरतर्षभ।
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु॥ 13-61-11(83858)
यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च।
दैवे वाऽप्यथ पित्र्ये वा राजन्नार्हन्ति केतनम्॥ 13-61-12(83859)
श्वित्री क्लीबश्च कुष्ठी च तता यक्ष्महतश्च यः।
अपस्मारी च यश्चान्धो राजन्नार्हन्ति केतनम्॥ 13-61-13(83860)
चिकित्सका देवलका वृथा नियमधारिणः।
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम्॥ 13-61-14(83861)
गायना नर्तकाश्चैव प्लवका वादकास्तथा।
कथका योधकाश्चैव राजन्नार्हन्ति केतनम्॥ 13-61-15(83862)
होतारो वृषलानां च वृषलाध्यापकास्तथा।
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम्॥ 13-61-16(83863)
अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत।
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ॥ 13-61-17(83864)
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः।
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम्॥ 13-61-18(83865)
अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये।
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम्॥ 13-61-19(83866)
अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत।
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम्॥ 13-61-20(83867)
ऋणकर्ता च यो राजन्यश्च वार्धुषिको नरः।
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम्॥ 13-61-21(83868)
स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ।
आजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्॥ 13-61-22(83869)
श्राद्धे दैवे च निर्दिष्टो ब्राह्मणो भरतर्षभ।
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः॥ 13-61-23(83870)
चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः।
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः॥ 13-61-24(83871)
क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम्।
न त्वेव वणिजं तात श्राद्धे च परिकल्पयेत्॥ 13-61-25(83872)
अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत्।
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः॥ 13-61-26(83873)
सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ।
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः॥ 13-61-27(83874)
उदितास्तमितो यश्च तथैवास्तमितोदितः।
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः॥ 13-61-28(83875)
अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ।
संसर्ग भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः॥ 13-61-29(83876)
अव्रती कितवः स्तेनः प्राणिविक्रयिको वणिक्।
सनिष्कृतिः पुनः सोमं पीतवान्केतनक्षमः॥ 13-61-30(83877)
अर्जयित्वा धनं पूर्वं दारुणैरपि कर्मभिः।
भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः॥ 13-61-31(83878)
ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम्।
अदेयं पितृविप्रेभ्यो यच्च क्लैब्यादुपार्जितम्॥ 13-61-32(83879)
क्रियमाणेऽपवर्गे च यो द्विजो भरतर्षभ।
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम्॥ 13-61-33(83880)
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा।
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर॥ 13-61-34(83881)
`मुहूर्तानां त्रयं पूर्वमह्नः प्रातरिति स्मृतम्।
जपध्यानादिभिस्तस्मिन्विप्रैः कार्यं शुभव्रतम्॥ 13-61-35(83882)
सङ्गवाख्यं त्रिभागं तु मध्याह्नस्त्रिमुहूर्तकः।
लौकिकं सङ्गवेऽर्धं च स्नानादि ह्यथ मध्यमे॥ 13-61-36(83883)
चतुर्थमपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम्।
सायाह्नस्त्रिमुहूर्तं च मध्यमं कविभिः स्मृतम्॥ 13-61-37(83884)
चतुर्थ त्वपराह्णाख्ये श्राद्धं कुर्यात्सदा नृप॥ 13-61-38(83885)
प्रागुदीचीमुखा विप्राः विश्वेदेवे च दक्षिणाः।
श्रावितेषु सुतृप्तेषु पिण्डं दद्यात्सदक्षिणम्॥' 13-61-39(83886)
श्राद्धापवर्गे विप्रस्य दातारो वोस्त्वितीरयेत्।
क्षत्रियस्यापि यो ब्रूयात्प्रीयन्तां पितरस्त्विति॥ 13-61-40(83887)
अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत।
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत॥ 13-61-41(83888)
पुण्याहवाचनं दैवं ब्राह्मणस्य विधीयते।
एतदेव निरोङ्कारं क्षत्रियस्य विधीयते॥ 13-61-42(83889)
वैश्यस्य दैवे वक्तव्यं प्रीयन्तां देवता इति।
`गोर्हिसायां चतुर्भागं पूर्वं विप्रातिकेतिनः॥ 13-61-43(83890)
वर्णावरेषु भुञ्जानं क्रमाच्छूद्रे चतुर्गुणम्।
नान्यत्र ब्राह्मणो ब्रूयात्पूर्वं विप्रेण केतितः॥ 13-61-44(83891)
अभोजने च दोषः स्याद्वर्जयेच्छूद्रकेतनम्।
शूद्रान्नरसपुष्टाङ्गो द्विजो नोर्ध्वां गतिं लभेत्॥ 13-61-45(83892)
अशुचिर्नैव चाश्नीयान्नास्तिको मानवर्जितः।
न पूर्वं लङ्घयेल्लोभादेकवर्णोऽपि पार्थिव॥ 13-61-46(83893)
विप्राः स्मृता भूमिदेवा उपकुर्वाणवर्जिताः।'
कर्मणामानुपूर्व्येण विदिपूर्वं कृतं शृणु॥ 13-61-47(83894)
जातकर्मादिकाः सर्वास्त्रिषु वर्णेषु भारत।
ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर॥ 13-61-48(83895)
विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी।
बाल्वजी ह्येव वैश्यस्य धर्म एष युधिष्ठिर॥ 13-61-49(83896)
`पालाशो द्विजदण्डः स्यादश्वत्थः क्षत्रियस्य तु।
औदुम्बरश्च वैश्यस्य धर्म एष युधिष्ठिर॥' 13-61-50(83897)
दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु।
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः।
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः॥ 13-61-51(83898)
नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः।
[यवीयान्पशुहिंसायां तुल्यधर्मा भवेत्स हि॥ 13-61-52(83899)
तथा राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः।
यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात्॥ 13-61-53(83900)
दैवं वाऽ************** पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु।]
अस्नातो ब्राह्मणो राजंस्तस्याधर्मोऽनृतं स्मृतम्॥ 13-61-54(83901)
आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु।
ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम्॥ 13-61-55(83902)
अर्थेनान्येन यो लिप्सेत्कर्मार्थं चैव भारत।
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम्॥ 13-61-56(83903)
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर।
मन्त्रवत्परिविष्यन्ते तस्याधर्मो गवानृतम्॥ ॥ 13-61-57(83904)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकषष्टितमोऽध्यायः॥ 61 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-61-1 कालादौ विहितं विशेषमिति शेषः॥ 7-61-3 उपपत्तिभिः आदरादिभिर्युक्तः सन्॥ 7-61-4 कलिपूर्वं चेति झ. पाठः॥ 7-61-6 क्षुतं क्षुतेन दूषितम्॥ 7-61-7 निरोंकारेण अननुज्ञातेन शूद्रेण वा॥ 7-61-8 परिभुक्तं देवातिथिपितृबालकादीन्वर्जयित्वा भुक्तं स्वेन्नैव॥ 7-61-10 आज्याहुतिं पात्राभिघारणं विना॥ 7-61-11 विसर्गस्य ब्राह्मणे दानस्य पात्रभूते॥ 7-61-12 पतिताः महापातकेन जातिबहिर्भूताः। केतनं निमन्त्रणम्॥ 7-61-13 श्वित्री श्वेतकुष्ठी। कुष्ठी मण्डलकुष्ठी। यक्ष्महतो महारोगी। अपस्मारी ग्रहग्रस्तः॥ 7-61-14 देवलका देवार्चनवृत्तिजीविनः। 7-61-15 प्लवकाः क्रीडापराः। कथका वृथालापिनः। योधका मल्लाः॥ 7-61-16 वृषलानां शूद्राणां होतारो याजकाः॥ 7-61-17 अनुयोक्ता भृतकाध्यापकः। अनुयुक्तो भृतकाध्येता॥ 7-61-18 वर्णावरपरिग्रहः शूद्रापतिः॥ 7-61-20 गणपूर्वा ग्रामण्यः। पुत्रिकापूर्वपुत्राः। अस्यामुत्पन्नः पुत्रो मदीय इति नियमेन या दीयते तस्यां च यो जातः स पुत्रिकापूर्वपुत्रः॥ 7-61-21 ऋणकर्ता वृद्ध्यार्थं धनप्रयोक्ता॥ 7-61-22 स्त्रीपूर्वाः स्त्रीजिताः स्त्रीपण्योपजीविनो वा। काण्डपृष्ठो वेश्यापतिः। अजपाः सन्ध्यावन्दनहीनाः॥ 7-61-23 अनुग्रहं निषिद्धानामपि केनचिद्गुणेनाभ्यनुज्ञानम्॥ 7-61-25 वणिजं वणिग्वृत्तिम्॥ 7-61-28 उदित आढ्यः। अस्तमितो दरिद्रः पूर्वं आढ्यः सद्यो दरिद्रः॥ 7-61-29 अकल्ककोऽदाम्भिकः अपापो वा। अतर्कोऽहैतुकः संसर्गे सङ्गत्यर्हे गृहे ज्ञाते भैक्ष्यवृत्तिः॥ 7-61-30 कितवो धूर्तः॥ 7-61-31 सर्वं देवतादिकं अतिथिरेव यस्य स सर्वातिथिः॥ 7-61-32 ब्रह्म वेदः। क्लैब्यात् दीनभाषणेन मिध्याशपथादिना वा॥ 7-61-33 अपवर्गे श्राद्धसमाप्तौ युक्तं अस्तुस्वधेत्यादिवचनं गवानृतं अनृतगोशपथस्य पापम्॥ 7-61-34 सोमक्षयो दर्शः। आरण्यं मृगादिमांसं च यदा प्राप्तं तदैव श्राद्धस्य कालः॥ 7-61-40 स्वधा वै मुदिता भवेदिति झ.पाठः। स्वधोच्यतामिति प्रदात्रा उक्ते अस्तुस्वधेति ब्राह्मणो वदेत्। एवमुत्तरत्र मुदिता प्रीतिकरी पितॄणामित्यर्थात्॥ 7-61-42 पुण्याहं भवन्तो ब्रुवन्त्विति यजमानेन प्रोक्ते ओं पुण्याहमस्त्विति ब्राह्मणा ब्रूयुः। दैवं सोङ्कारम्॥ 7-61-43 दैवे ओङ्कारस्थाने प्रीयन्तां देवताः पुण्याहमस्त्विति प्रतिवदेदित्यर्थः॥ 7-61-49 रशना भेखला। मौञ्जी मुञ्जमयी। मौर्वी धनुर्ज्या। बाल्बजी बल्बजस्तृणविसेषस्तन्मयी॥ 7-61-51 धर्मो दातुः। अधर्मः प्रतिग्रहीतुः॥ 7-61-53 ब्राह्मणेन केतितः सन् यदि यवीयान् भवेत्तर्हि वृथा पशुहिंसायाः पूर्णं पापं प्राप्नुयात्। क्षत्रियादिना केतितः सन् यदि यवीयान्स्यात्तर्हि वृथापशुहिंसाया अर्धं पापं प्राप्नुयाटिति श्लोकद्वयार्थः॥ 7-61-55 आशौचः जननमरणाशौचवान्॥ 7-61-56 अर्थेन प्रयोजनेन तीर्थयात्राव्यपदेशेन जीविकाद्यर्थी यो धनं लिप्तेत् यो वा कर्मार्थं मे भिक्षां देहीत्यामन्त्रयति दातारममिमुखीकरोति तस्यापि अनृतं गवानृतमेव स्मृतम्॥ 7-61-57 वेदव्रतं चारित्रं च येषां नास्ति ते। येन मन्त्रवत् मन्त्रयुक्तं यथा स्यात्तथा श्राद्धे परिविष्यन्ते तस्य॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|